द पॉलिटिक्स अगेन
सीएम कार्यालय ने जारी किया संस्कृत भाषा में प्रेसनोट

सीएम कार्यालय ने जारी किया संस्कृत भाषा में प्रेसनोट
पत्रसूचनाशाखा
( *मुख्यमन्त्रिसूचनापरिसरः* )
सूचना तथा जनसम्पर्कविभागः,उ०प्र०।
*मुख्यमन्त्रिणा नवयुक्तेभ्यः* *राज्यपालेभ्यः शुभकामनाः दत्ताः।*
*मुख्यमन्त्रिणा श्रीमते कलराजमिश्राय हिमाचलप्रदेशस्य स्थाने राजस्थानस्य राज्यपालनियुक्त्यर्थं शुभकामनाः दत्ताः।*
लखनऊ०१सितम्बरमासः २०१९
उत्तरप्रदेशस्य मुख्यमन्त्रिणा योगि-आदित्यनाथेन श्रीमते भगतराम कोश्यारीवर्याय महाराष्ट्रस्य,श्रीमते भण्डारु दत्तात्रेयाय हिमाचलप्रदेशस्य, श्रीमते आसिफमोहम्मद खानवर्याय केरलप्रदेशस्य, तमिलसाई सौन्द्राराजनवर्याय तेलाङ्गानाराज्यस्य च राज्यपालनियुक्त्यर्थं शुभकामनाः दत्ताः। तेन श्रीमते कलराजमिश्राय अपि हिमाचलप्रदेशस्य स्थाने राजस्थानस्य राज्यपालनियुक्त्यर्थं शुभकामनाः दत्ताः।
मुख्यमन्त्रिणा उक्तं नवनियुक्तराज्यपालाः संवैधानिकप्रावधानानि संसदीयपरम्पराश्च गहनतया जानन्ति। एतेषां सार्वजनिकजीवनं सुविशदञ्च आसीत्। एतेषाम् अनुभवस्य लाभः नूनमेव प्रदेशस्य जनतायै भविष्यति।